श्वेतद्वीपादुपावृत्ते तस्मिन् वा सुमहात्मनि। किमब्रूतां महात्मानौ नरनारायणावृषी॥ २८॥ तदेतन्मे यथातत्त्वं सर्वमाख्यातुमर्हसि।