वैशम्पायन उवाच एवं स तुर्वसुं शप्त्वा ययाति: सुतमात्मन:। शर्मिष्ठाया: सुतं द्रुह्युमिदं वचनमब्रवीत्॥ १६॥