शुक्र उवाच यत् किंचिदस्ति द्रविणं दैत्येन्द्राणां महासुर। तस्येश्वरोऽस्मि यद्येषा देवयानी प्रसाद्यताम्॥ १२॥