तत्र हास्यानुरसः — ताण्डवं व्यधित हन्त कक्खटी मर्कटी भ्रू-कुटीभिस् तथोद्धुरम् । येन वल्लव-कदम्बकं बभौ हास-डम्बर-करम्बिताननम् ॥४.९.३४॥