तत्र बहु-प्रदः — सहसा दीयते येन स्वयं सर्वस्वम् अप्य् उत । दामोदरस्य सौख्याय प्रोच्यते स बहु-प्रदः ॥४.३.२६॥