तत्र आद्या, यथा — समाधौ योगिनस् तस्मिन्न् असम्प्रज्ञात-नामनि । लीलया मयि लब्धे’स्य बभूवोत्कम्पिनी तनुः ॥३.१.३६॥