अथ वैवर्ण्यम् — विषाद-रोष-भीत्य्-आदेर् वैवर्ण्यं वर्ण-विक्रिया । भाव-ज्ञैर् अत्र मालिन्य-कार्श्याद्याः परिकीर्तिताः ॥२.३.४७॥