(११) सुपण्डित्यः — विद्वान् नीतिज्ञ इत्य् एष सुपण्डित्यो द्विधा मतः । विद्वान् अखिल-विद्या-विन् नीतिज्ञस् तु यथार्ह-कृत् ॥२.१.७५॥॥