यथा — पश्य विन्ध्य-गिरितो’पि गरिष्ठं दैत्य-पुङ्गवम् उदग्रम् अरिष्टम् । तुल-खण्डम् इव पिण्डितम् आरात् पुण्डरीक-नयनो विनुनोद ॥२.१.६१॥