अथ मण्डनम् — किरीटं कुण्डले हारश् चतुष्की वलयोर्मयः । केयूर-नूपुराद्यं च रत्न-मण्डनम् उच्यते ॥२.१.३५९॥