ये प्रोक्ताः पञ्च-पञ्चाशत् क्रमात् कंसरिपोर् गुणाः । ते चान्ये चापि सिद्धेषु सिद्धिदत्वादयो मताः ॥२.१.२९९॥