यथा — दशभिः सिद्ध-सखीभिर् वृता महा-सिद्धयः क्रमाद् अष्टौ । अणिमादयो लभन्ते नावसरं द्वारि कृष्णस्य ॥२.१.१९३॥