यथा वा — त्वं चुम्बको’सि माधव लोह-मयी नूनम् अङ्गना-जातिः । धावति ततस् ततो’सौ यतो यतः क्रीडया भ्रमसि ॥२.१.१६८॥