यथा स्कान्दे — श्री-कृष्ण-स्तव-रत्नौघैर् येषां जिह्वा त्व् अलङ्कृता । नमस्या मुनि-सिद्धानां वन्दनीया दिवौकसाम् ॥१.२.१५८॥