३५ - अथ विज्ञप्तिः, यथा स्कान्दे— हरिम् उद्दिश्य यत् किञ्चित् कृतं विज्ञापनं गिरा । मोक्ष-द्वारार्गलान् मोक्षस् तेनैव विहितस् तव ॥१.२.१५१ ॥